मराठी चारोळ्या

Pages

श्रीगणेशाय नमः

Tuesday, January 19, 2010


श्रीगणेशाय नमः | नारद उवाच |
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम |
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ||१||
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् |
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ||२||
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च |
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ||३||
नवमं भालचन्द्रं च दशमं तु विनायकम् |
एकादशं गणपतिं द्वादशं तु गजाननम् ||४||
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः |
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः ||५||
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् |
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् || ६||
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् |
संवत्सरेण सिद्धिं च लभते नात्र संशयः ||७||
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् .
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ||८||
|| इति श्रीनारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम् ||

0 comments:

Post a Comment

About This Blog

TYPE JOIN Ek_Mrugjal & send to 9870807070

tweet me

Our Blogger Templates

pAGge no.

Blog Archive

  © Blogger template On The Road by Ourblogtemplates.com 2009

Back to TOP